पंचमुखी हनुमान कवच

पंचमुखी हनुमान कवच केवल एक स्तोत्र नहीं, बल्कि एक दिव्य कवच है जो भक्त को हर परिस्थिति में सुरक्षा, बल और साहस प्रदान करता है। इस कवच का पाठ विश्वास और श्रद्धा से किया जाए तो जीवन से भय और असुरक्षा का नाश होकर सुख-शांति और समृद्धि प्राप्त होती है।

प्रारंभिक मंत्र

ॐ श्री पंचवदनायांजनेयाय नमः।
ॐ अस्य श्री पंचमुखहनुमत कवच मन्त्रस्य ब्रह्मा ऋषिः ।
गायत्रीछन्दः पंचमुखविराट् हनुमान्‌ देवता,
ह्रीं बीजं, श्रीं शक्ति, क्रौं कीलकं, क्रूं कवचं,
क्रैं अस्राय फट् इति दिग्बन्धः ॥

 

श्री गरुड उवाच

अथ ध्यानम्‌

अथ ध्यानं प्रवक्ष्यामि श्रृणु सर्वांगसुन्दरि।
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम्‌ ॥1॥

पंचवक्त्रं महाभीमं त्रिपंचनयनैर्युतम्‌।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम्‌ ॥2॥

पूर्वंतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्‌।
दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम्‌ ॥3॥

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्‌।
अत्युग्रतेजोवपुषं भीषणं भयनाशनम्‌ ॥4॥

पश्चिमं गारुडं वक्त्रं वक्रतुंडं महाबलम्‌।
सर्वनागप्रशमनं विषभूतादिकृन्तनम्‌ ॥5॥

उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम्‌।
पातालसिंहवेतालज्वररोगादिकृन्तनम्‌ ॥6॥

ऊर्ध्वं हयाननं घोरं दानवांतकरं परम।
येन वक्त्रेण विप्रेंद्र तारकाख्यं महासुरम्‌ ॥7॥

जघान शरणं तत्स्यात् सर्वशत्रुहरं परम्‌।
ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम्‌ ॥8॥

शस्त्र-धारण

खंग त्रिशूलं खट्वांगं पाशमंकुश पर्वतम्‌।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम्‌ ॥9॥

भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुंगवम्‌।
एतान्यायुधजालानि धारयन्तं भजाम्यहम्‌ ॥10॥

प्रेतासनोपविष्टं तं सर्वाभरणभूषितम्‌।
दिव्यमाल्याम्बरघर दिव्यगन्धानुलेपनम्‌ ॥11॥

स्मरण

सर्वाश्चर्यमय देव हनुमद्विश्वतोमुखम्‌।
पीतांबरादिमुकुटैरूपशोभितांगम्‌।
पिंगाक्षमाद्यमनिशं मनसा स्मरामि ॥12॥

मर्कटेशं महोत्साहं सर्वशत्रुहरं परम्‌।
शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥13॥

विशेष मंत्र

ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले।
यदि नश्यति नश्यति शत्रुकुलं
यदि मुश्चति मुश्चति वामलता ॥14॥

ॐ हरिमर्कटाय स्वाहा ॥

पंचमुखी हनुमान के पाँच मुख

  • पूर्वमुख : कपिमुख – सकल शत्रु संहारण
  • दक्षिणमुख : नरसिंह – भूत, प्रेत, दानव नाशक
  • पश्चिममुख : गरुड़ – विषहरण
  • उत्तरमुख : वराह – संपत्ति प्रदायक
  • ऊर्ध्वमुख : हयग्रीव – ज्ञान व सफलता दायक

विनियोग एवं न्यास

ॐ अंजनीसुताय अंगुष्ठाभ्यां नमः ।
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ पंचमुख हनुमते करतलकरपृष्ठाभ्यां नमः ॥

इति करन्यासः ॥

ॐ अंजनीसुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वषट् ।
ॐ अग्निगर्भाय कवचाय हुं ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पंचमुखहनुमते अस्राय फट् ॥

फलश्रुति (लाभ)

एकवारं पठेन्नित्यं सर्वशत्रुनिवारणम्‌ ।
द्विवारं पठेन्नित्यं पुत्रपौत्रप्रवर्धनम्‌ ।
त्रिवारं पठेन्नित्यं सर्वसम्पत्करं शुभम्‌ ।
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम्‌ ।
पंचवारं पठेन्नित्यं सर्वलोकवशंकरम्‌ ।
षड्वारं पठेन्नित्यं सर्वदेववशंकरम्‌ ।
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम्‌ ।
अष्टवारं पठेन्नित्यं मिष्टकामार्थसिद्धिदम्‌ ।
नववारं पठेन्नित्यं राजभोगमवाप्नुयात्‌ ।
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम्‌ ।

 

समापन

कवचस्मरणेनैव महाबलमवाप्नुयात्‌ ॥

॥ सुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्री पंचमुखहनुमत्कवचं संपूर्ण ॥




प्रश्न और उत्तर





2025 के आगामी त्यौहार और व्रत











दिव्य समाचार












ENहिं