काली हृदय स्तोत्र

महाकौतूहल दक्षिणकाली ह्रदय

महाकौतूहल दक्षिणकाली ह्रदय स्तोत्रम्
महाकौतूहल दक्षिणकाली ह्रदय स्तोत्रम्

महाकालोवाच

महाकौतूहलं स्तोत्रं हृदयाख्यं महोत्तमम् ।
श्रृणु प्रिये महागोप्यं दक्षिणायः श्रृणोपितम् ॥

अवाच्येमपि वक्ष्यामि तव प्रीत्या प्रकाशितं ।
अन्येभ्यः कुरु गोप्यं च सत्यं सत्यं च शैलजे ॥

देव्युवाच

कस्मिन् युगे समुत्पन्नं केन स्तोत्रं कृतं पुरा ।
तत्सर्वं कथ्यतां शंभो दयानिधि महेश्वरः ॥

महाकालोवाच

पुरा प्रजापते शीर्षच्छेदनं च कृतावहन् ।
ब्रह्महत्या कृतेः पापैर्भैंरवं च ममागतम् ॥

ब्रह्महत्या विनाशाय कृतं स्तोत्रं मयाप्रिये ।
कृत्या विनाशकं स्तोत्रं ब्रह्महत्यापहारकम् ॥

विनियोग

ॐ अस्य श्री दक्षिणकाल्या हृदय स्तोत्र मंत्रस्य श्री महाकाल ऋषिरुष्णिक्छन्दः, श्री दक्षिण कालिका देवता, क्रीं बीजं, ह्नीं शक्तिः, नमः कीलकं सर्वत्र सर्वदा जपे विनियोगः।

हृदयादि न्यास

ॐ क्रां ह्रदयाय नमः । ॐ क्रीं शिरसे स्वाहा । ॐ क्रूं शिखायै वषट्, ॐ क्रैं कवचाय हुं, ॐ क्रौं नेत्रत्रयाय वौषट्, ॐ क्रः अस्त्राय फट् ।

ध्यान

ॐ ध्यायेत्कालीं महामायां त्रिनेत्रां बहुरूपिणीं ।
चतुर्भुजां ललज्जिह्वां पुर्णचन्द्रनिभानवाम् ॥

नीलोत्पलदल प्रख्यां शत्रुसंघ विदारिणीम् ।
नरमुण्डं तथा खङ्गं कमलं वरदं तथा ॥

विभ्राणां रक्तवदनां दंष्ट्रालीं घोररूपिणीं ।
अट्टाटहासनिरतां सर्वदा च दिगम्बराम् ।
शवासन स्थितां देवीं मुण्डमाला विभूषिताम् ॥

अथ ह्रदय स्तोत्रम्

ॐ कालिका घोर रूपाढ्‌यां सर्वकाम फलप्रदा ।
सर्वदेवस्तुता देवी शत्रुनाशं करोतु में ॥

ह्नीं ह्नीं स्वरूपिणी श्रेष्ठा त्रिषु लेकेषु दुर्लभा ।
तव स्नेहान्मया ख्यातं न देयं यस्य कस्यचित् ॥

अथ ध्यानं प्रवक्ष्यामि निशामय परात्मिके ।
यस्य विज्ञानमात्रेण जीवन्मुक्तो भविष्यति ॥

नागयज्ञोपवीताञ्च चन्द्रार्द्धकृत शेखराम् ।
जटाजूटाञ्च संचिन्त्य महाकात समीपगाम् ॥

एवं न्यासादयः सर्वे ये प्रकुर्वन्ति मानवाः ।
प्राप्नुवन्ति च ते मोक्षं सत्यं सत्यं वरानने ॥

यंत्रं श्रृणु परं देव्याः सर्वार्थ सिद्धिदायकम् ।
गोप्यं गोप्यतरं गोप्यं गोप्यं गोप्यतरं महत् ॥

त्रिकोणं पञ्चकं चाष्ट कमलं भूपुरान्वितम् ।
मुण्ड पंक्तिं च ज्वालं च काली यंत्रं सुसिद्धिदम् ॥

मंत्रं तु पूर्व कथितं धारयस्व सदा प्रिये ।
देव्या दक्षिण काल्यास्तु नाम मालां निशामय ॥

काली दक्षिण काली च कृष्णरूपा परात्मिका ।
मुण्डमाला विशालाक्षी सृष्टि संहारकारिका ॥

स्थितिरूपा महामाया योगनिद्रा भगात्मिका ।
भगसर्पि पानरता भगोद्योता भागाङ्गजा ॥

आद्या सदा नवा घोरा महातेजाः करालिका ।
प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥

एतानि नाममाल्यानि ए पठन्ति दिने दिने ।
तेषां दासस्य दासोऽहं सत्यं सत्यं महेश्वरि ॥

ॐ कालीं कालहरां देवीं कंकाल बीज रूपिणीम् ।
कालरूपां कलातीतां कालिकां दक्षिणां भजे ॥

कुण्डगोलप्रियां देवीं स्वयम्भू कुसुमे रताम् ।
रतिप्रियां महारौद्रीं कालिकां प्रणमाम्यहम् ॥

दूतीप्रियां महादूतीं दूतीं योगेश्वरीं पराम् ।
दूती योगोद्भवरतां दूतीरूपां नमाम्यहम् ॥

क्रीं मंत्रेण जलं जप्त्वा सप्तधा सेचनेच तु ।
सर्वे रोगा विनश्यन्ति नात्र कार्या विचारणा ॥

क्रीं स्वाहान्तैर्महामंत्रैश्चन्दनं साधयेत्ततः ।
तिलकं क्रियते प्राज्ञैर्लोको वश्यो भवेत्सदा ॥

क्रीं हूं ह्नीं मंत्रजप्तैश्च ह्यक्षतैः सप्तभिः प्रिये ।
महाभयविनाशश्च जायते नात्र संशयः ॥

क्रीं ह्नीं हूं स्वाहा मंत्रेण श्मशानाग्नि च मंत्रयेत् ।
शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति ॥

हूं ह्नीं क्रीं चैव उच्चाटे पुष्पं संशोध्य सप्तधा ।
रिपूणां चैव चोच्चाटं नयत्येव न संशयः ॥

आकर्षणे च क्रीं क्रीं क्रीं जप्त्वाक्षतान् प्रतिक्षिपेत् ।
सहस्त्रजोजनस्था च शीघ्रमागच्छति प्रिये ॥

क्रीं क्रीं क्रीं ह्नूं ह्नूं ह्नीं ह्नीं च कज्जलं शोधितं तथा ।
तिलकेन जगन्मोहः सप्तधा मंत्रमाचरेत् ॥

ह्रदयं परमेशानि सर्वपापहरं परम् ।
अश्वमेधादि यज्ञानां कोटि कोटिगुणोत्तमम् ॥

कन्यादानादिदानां कोटि कोटि गुणं फलम् ।
दूती योगादियागानां कोटि कोटि फलं स्मृतम् ॥

गंगादि सर्व तीर्थानां फलं कोटि गुणं स्मृतम् ।
एकधा पाठमात्रेण सत्यं सत्यं मयोदितम् ॥

कौमारीस्वेष्टरूपेण पूजां कृत्वा विधानतः ।
पठेत्स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ॥

रजस्वलाभगं दृष्ट्‌वा पठदेकाग्र मानसः ।
लभते परमं स्थान देवी लोकं वरानने ॥

महादुःखे महारोगे महासंकटे दिने ।
महाभये महाघोरे पठेत्स्तोत्रं महोत्तमम् ।
सत्यं सत्यं पुनः सत्यं गोपयेन्मातृजारवत् ॥

|| इति कालीरहस्ये श्रीकालीहृदयम्स माप्तम् ॥

"काली हृदय स्तोत्र" देवी काली को समर्पित एक पवित्र प्रार्थना है, जो हिंदू धर्म में एक दुर्जेय और पूजनीय देवी हैं। देवी काली के आशीर्वाद, सुरक्षा और कृपा का आह्वान करने के लिए भक्तों द्वारा इस स्तोत्र का जाप या पाठ किया जाता है।

स्तोत्र के नाम में "हृदय" शब्द का अर्थ "हृदय" है, और इस प्रार्थना को अक्सर उग्र लेकिन दयालु देवी माँ के प्रति भक्ति और समर्पण की हार्दिक अभिव्यक्ति माना जाता है। इसका पाठ उनके दिव्य मार्गदर्शन, शक्ति और किसी के जीवन से बाधाओं और नकारात्मकताओं को दूर करने के लिए किया जाता है।

काली हृदय स्तोत्र देवी काली को समर्पित भक्ति भजनों और मंत्रों की समृद्ध परंपरा का हिस्सा है। भक्त गहरी श्रद्धा के साथ इसका जाप करते हैं, उनका मानना है कि यह उन्हें देवी की शक्तिशाली और परिवर्तनकारी ऊर्जा से जोड़ता है और उन्हें साहस और विश्वास के साथ जीवन की चुनौतियों से निपटने में मदद करता है।

मुकदमे और युद्ध में विजय पाने के लिए सूर्य जैसी शक्ति प्राप्त करना बहुत लाभकारी होता है। सूर्य संबंधी समस्याओं से छुटकारा पाने के लिए काली हृदय स्तोत्र भी लाभकारी है। काली हृदय स्तोत्र के लिए कुछ नियम हैं जिनका पालन किया जाना चाहिए।







2024 के आगामी त्यौहार और व्रत











दिव्य समाचार












ENहिं